श्रवणम्

5.45.6
एता॒ धियं᳚ कृ॒णवा᳚मा सखा॒यो॑प॒ या मा॒ता{4} ऋ᳚णु॒त व्र॒जं गोः ।
यया॒ मनु᳚र्विशिशि॒प्रं जि॒गाय॒ यया᳚ व॒णिग्व॒ङ्कुरापा॒ पुरी᳚षम् ॥
▶ पदपाठः (Word-by-word)
आ । इ॒त॒ । धिय᳚म् । कृ॒णवा᳚म । स॒खा॒यः॒ । अप᳚ । या । मा॒ता । ऋ॒णु॒त । व्र॒जम् । गोः ।
यया᳚ । मनुः᳚ । वि॒शि॒॑शि॒प्रम् । जि॒गाय᳚ । यया᳚ । व॒णिक् । व॒ङ्कुः । आप᳚ । पुरी᳚षम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमप्यंगिरसांवाक्यं एत आगच्छत आगत्यच धियं स्तुतिं कृणवाम करवाम हेसखायः परस्परंसखिभूताअंगिरसइत्यंगिरसांवचनं याधीः माता गवांनिर्मात्रीगोर्गवांव्रजंपणिभिरपहृतं अपऋणुत अपावृणोत् ययाच मनुः विशिशिप्रं विगतहनुं शत्रुंजिगाय जितवान् यद्वा मनुः सर्वस्यमन्तेन्द्रः विशिशिप्रोवृत्रः सतमस्माभिःकृतया स्तोमलक्षणयाधिया जिगाय याच वणिक् वणिगिवाल्पेनकर्मणा बहुफलाकांक्षी कक्षीवान् वंकुर्जलेच्छयावनगामी पुरीषं पूरकमुदकमाप याभिः सुदानुऔशिजायवणिजेदीर्घश्रवसेमधुकोशेइतिहिश्रुतं ॥ ६ ॥