सू॒क्तेभि᳚र्वो॒ वचो᳚भिर्दे॒वजु᳚ष्टै॒रिन्द्रा॒ न्व१॒᳚ग्नी अव᳚से हु॒वध्यै᳚ ।
उ॒क्थेभि॒र्हि ष्मा᳚ क॒वयः᳚ सुय॒ज्ञा आ॒विवा᳚सन्तो म॒रुतो॒ यज᳚न्ति ॥
उ॒क्थेभि॒र्हि ष्मा᳚ क॒वयः᳚ सुय॒ज्ञा आ॒विवा᳚सन्तो म॒रुतो॒ यज᳚न्ति ॥
पदपाठः (Word-by-word)
सु॒॑उ॒क्तेभिः᳚ । वः॒ । वचः᳚॑भिः । दे॒व॑जु᳚ष्टैः । इन्द्रा᳚ । नु । अ॒ग्नी इति᳚ । अव᳚से । हु॒वध्यै᳚ ।
उ॒क्थेभिः । हि । स्म॒ । क॒वयः᳚ । सु॒॑य॒ज्ञाः । आ॒॑विवा᳚सन्तः । म॒रुतः᳚ । यज᳚न्ति ॥
उ॒क्थेभिः । हि । स्म॒ । क॒वयः᳚ । सु॒॑य॒ज्ञाः । आ॒॑विवा᳚सन्तः । म॒रुतः᳚ । यज᳚न्ति ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्रा हेअग्नी परस्परापेक्षयाप्रत्येकंद्विवचनं यद्यप्येकमेवपदं मध्येव्यवधानंछान्दसं हेइन्द्राग्नी वोयुवां व्यत्ययेनबहुवचनं देवजुष्टैः देवैः सेवनीयैः सूक्तेभिः सूक्तैः सुवचनैः शोभनगुणप्रकाशनप्रवणैः वचोभिरवसेस्मद्रक्षणाय हुवध्यै आह्वयामि नुक्षिप्रं युवामुक्थेभिः स्तोत्रैः कवयोनूचानाः पूर्वेऋषयः सुयज्ञाः शोभनयागाः आविवासन्तः स्तुत्यादिनापरिचरन्तः मरुतोमरुत्सदृशाः कर्मसुशीघ्राः यजन्ति पूजयन्ति हिस्मेतिपूरणौ ॥ ४ ॥