श्रवणम्

5.45.8 समानपद
विश्वे᳚ अ॒स्या व्युषि॒ माहि᳚नाया॒ः सं यद्गोभि॒रङ्गि᳚रसो॒ नव᳚न्त ।
उत्स᳚ आसां पर॒मे स॒धस्थ᳚ ऋ॒तस्य᳚ प॒था स॒रमा᳚ विद॒द्गाः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । अ॒स्याः । वि॒॑उषि᳚ । माहि᳚नायाः । सम् । यत् । गोभिः᳚ । अङ्गि᳚रसः । नव᳚न्त ।
उत्सः᳚ । आ॒सा॒म् । प॒र॒मे । स॒ध॑स्थे᳚ । ऋ॒तस्य᳚ । प॒था । स॒रमा᳚ । वि॒द॒त् । गाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्वे अंगिरसोमाहिनायाः मंहनीयायाः अस्याउषसोव्युषि व्युच्छ्नेसति गवामावरकेन्धकारे अपवृतेसति यद्यदा गोभिः संनवन्त संजग्मिरे तदा आसांगवां उत्सः क्षाराद्युत्स्रवः परमे उत्कृष्टे सधस्थे सहस्थाने यज्ञे उपयुक्तोभवदित्यर्थः ऋतस्य सत्यस्य पथा मार्गेण सरमा वाक् देवशुनीवा गानिगूढाविदत् अलभत् यद्वा आसांगवां परमेसधस्थेसहस्थाने व्रजस्य निगूहनप्रदेशे उत्सः उदकस्यप्रस्रवणोवर्ततेबिलमित्यर्थः तेन ऋतस्योदकस्य पथा मार्गेण सरमा गाविदत् ॥ ८ ॥