श्रवणम्

5.45.3
अ॒स्मा उ॒क्थाय॒ पर्व᳚तस्य॒ गर्भो᳚ म॒हीनां᳚ ज॒नुषे᳚ पू॒र्व्याय᳚ ।
वि पर्व᳚तो॒ जिही᳚त॒ साध᳚त॒ द्यौरा॒विवा᳚सन्तो दसयन्त॒ भूम᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । उ॒क्थाय᳚ । पर्व᳚तस्य । गर्भः᳚ । म॒हीना᳚म् । ज॒नुषे᳚ । पू॒र्व्याय᳚ ।
वि । पर्व᳚तः । जिही᳚त । साध᳚त । द्यौः । आ॒॑विवा᳚सन्तः । द॒स॒य॒न्त॒ । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मै मह्यं उक्थाथ स्तोत्रे पर्वतस्य पर्ववतोमेघस्य गर्भोगर्भस्थानीयमुदकं जिहीत चलति चालयतिवेन्द्रः कीदृशायास्मै महतीनां महीनांस्तुतीनां जनुषेउत्पादयित्रे पूर्व्याय प्रत्नाय तदेवपुनरुच्यते पर्वतोमेघोविजिहीत द्यौश्च साधत साधयतिवृष्टिं अविवासन्तः सर्वतः परिचरन्तोंगिरसोभूमअत्यधिकंयन्त उपक्षपयन्त्यात्मानंकर्मभिः ॥ ३ ॥