श्रवणम्

5.82.6
अना᳚गसो॒ अदि᳚तये दे॒वस्य᳚ सवि॒तुः स॒वे ।
विश्वा᳚ वा॒मानि᳚ धीमहि ॥
▶ पदपाठः (Word-by-word)
अना᳚गसः । अदि᳚तये । दे॒वस्य᳚ । स॒वि॒तुः । स॒वे ।
विश्वा᳚ । वा॒मानि᳚ । धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमनुष्ठातारः सवितुः प्रेरकस्य देवस्य सवे अनुज्ञायांसत्यां अदितये अखंडनीयायै देव्यैभूम्यै अनागसःस्याम अनपराधिनोभवेम भूम्यांहिपापाःसंभवन्ति अपगतेष्वागःसुविश्वा सर्वाणि वामानि वननीयानि धनानि धीमहिधारयाम ॥ ६ ॥ चातुर्मास्येषुवैश्व्देवेपर्वणिसावित्रस्यद्वादशकपालस्याविश्वदेवमित्यनुवाक्या सूत्रितंच-आविश्वदेवंसत्पतिंवाममद्यसवितरिति । प्रायणीयएषैवसवितुरनुवाक्या सूत्रितंच-आविश्वदेवं सत्पतिंयइमाविश्वाजातानीति । देवसुवांहविष्वेषैवसवितुरनुवाक्या सूत्रितंच- आविश्वदेवंसप्ततिंनप्रमियेसवितुर्दैव्यस्यतदिति ।