तत्स᳚वि॒तुर्वृ᳚णीमहे व॒यं दे॒वस्य॒ भोज᳚नम् ।
श्रेष्ठं᳚ सर्व॒धात᳚मं॒ तुरं॒ भग᳚स्य धीमहि ॥
श्रेष्ठं᳚ सर्व॒धात᳚मं॒ तुरं॒ भग᳚स्य धीमहि ॥
पदपाठः (Word-by-word)
तत् । स॒वि॒तुः । वृ॒णी॒म॒हे॒ । व॒यम् । दे॒वस्य᳚ । भोज᳚नम् ।
श्रेष्ठ᳚म् । स॒र्व॒॑धात᳚मम् । तुर᳚म् । भग᳚स्य । धी॒म॒हि॒ ॥
श्रेष्ठ᳚म् । स॒र्व॒॑धात᳚मम् । तुर᳚म् । भग᳚स्य । धी॒म॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
तत्प्राप्यत्वेनप्रसिद्धं भोजनं भोग्यंधनं वयंस्तोतारोवृणीमहे प्रार्थयामः कस्यधनं सवितुः प्रेरकस्यदेवस्य स्वभूतं लब्ध्वाच श्रेष्ठं प्रशस्यं सर्वधातमं सर्वधातृतमं सर्वभोग्यप्रदमित्यर्थः तुरं शत्रूणांहिंसकं धनेनशत्रून्हन्तुंशक्यत्वात् तादृशंधनं भगस्य भजनीयस्य सवितुरनुग्रहात् धीमहि धारयाम उपभोगंकरवामेत्यर्थः अथवा धनंवृणीमहे अर्थित्वाच्च लभेमहीति ॥ १ ॥