य इ॒मे उ॒भे अह᳚नी पु॒र एत्यप्र᳚युच्छन् ।
स्वा॒धीर्दे॒वः स᳚वि॒ता ॥
स्वा॒धीर्दे॒वः स᳚वि॒ता ॥
पदपाठः (Word-by-word)
यः । इ॒मे इति᳚ । उ॒भे इति᳚ । अह᳚नी॒ इति᳚ । पु॒रः । एति᳚ । अप्र᳚॑युच्छन् ।
सु॒॑आ॒धीः । दे॒वः । स॒वि॒ता ॥
सु॒॑आ॒धीः । दे॒वः । स॒वि॒ता ॥
सायणभाष्यम् (Sayana Commentary)
यःसवितादेवः स्वाधीः शोभनाध्यानः सुकर्मावासन् इमे अहनी रात्र्यहनी तयोःपुरः पुरस्तादप्रयुच्छन् अप्रमाद्यन्नेति गच्छति तमावृणीमहइतिसंबन्धः ॥ ८ ॥ प्रायणीयेयइमाविश्वेतिसवितुर्याज्यासूत्रितंच-यइमाविश्वाजातानिसुत्रामाणंपृथिवींद्यामनेहसमिति । अश्वमेधेश्वमुत्सृज्यानुसवनंसा- वित्रीष्टिःकार्यातस्यामेषामाध्यन्दिनसवनेनुवाक्या सूत्रितंच-यइमाविश्वाजातान्यादेवोयातुसवितासुरत्नइति ।