अग्न᳚ ए॒षु क्षये॒ष्वा रे॒वन्न᳚ः शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ॥
पदपाठः (Word-by-word)
अग्ने᳚ । ए॒षु । क्षये᳚षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒॑मत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने सः लोकेषुप्रसिद्धोविश्वचर्षणिरुषिः अभिमाति शत्रूणांहिंसकंसहोबलंदधे धारयतु हेशुक्र शोचिष्मन् त्वं नोस्मदीयेषुक्षयेषुगृहेषुरेवत् धनयुक्तंयथाभवतितथाआदीदिहि आदीप्यस्व हेपावक पापानांशोधक अग्ने त्वं द्युमत् दीप्तियुक्तं यशोयुक्तंच दीदिहि दीप्यस्व ॥ ४ ॥
अग्नेत्वंनइतिचतुरृचंदशमंसूक्तं अत्रानुक्रमणिका-अग्नेत्वंगौपायनालौपायनावाबन्धुःसुबन्धुश्रुतबन्धुर्विप्रबन्धुश्चैकर्चाद्वैपदमिति । विंशतिकाद्विपदाविराजइत्युक्तत्वाच्चतस्रोद्विपदाविराजः बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चक्रमेणचतसृणामृषयः तेचगौपायनालौपायनावा अग्निर्देवता महापितृयज्ञेआहवनीयंप्रतिगच्छन्तऋत्विजः इदंसूक्तंजपेयुः तथाचसूत्रितं-अथैनमभिसमायन्ति माप्रगामाग्नेत्वंनइतिजपन्तइति । दशरात्रेषष्ठेहनितृतीयसवनेमैत्रावरुणस्याअग्नेत्वमितिद्वे तंत्वाशोचिष्ठेत्येका एवंमिलितोद्वैपदस्तृचः स्तोत्रियः तथैवसूत्रितं-अग्नेत्वंनोअन्तमोग्नेभवसुषमिधेति ।