श्रवणम्

5.41.12
शृ॒णोतु᳚ न ऊ॒र्जां पति॒र्गिर॒ः स नभ॒स्तरी᳚या{4} इषि॒रः परि᳚ज्मा ।
शृ॒ण्वन्त्वाप॒ः पुरो॒ न शु॒भ्राः परि॒ स्रुचो᳚ बबृहा॒णस्याद्रे᳚ः ॥
▶ पदपाठः (Word-by-word)
शृ॒णोतु᳚ । नः॒ । ऊ॒र्जाम् । पतिः᳚ । गिरः᳚ । सः । नभः᳚ । तरी᳚यान् । इ॒षि॒रः । परि᳚॑ज्मा ।
शृ॒ण्वन्तु᳚ । आपः᳚ । पुरः᳚ । न । शु॒भ्राः । परि᳚ । स्रुचः᳚ । ब॒बृ॒हा॒णस्य᳚ । अद्रेः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकंगिरः स्तुतीः श्रृणोतु कः उर्जांबलानांपतिर्वायुः अथवाऊर्जामन्नानांपतिः प्राणोपाधिकस्यवायोः कृत्स्नात्तृत्वंप्रसिद्धं श्रुतिश्चभवतिप्राणस्यान्नमिदंसर्वंप्रजापतिरकल्पयदिति । सः नभोनभसिचारी तरीयान् तरितव्यः इषिरोगमनशीलः परिज्मापरितोगन्ता किंच आपः शृण्वन्तु गिरः कीदृश्यस्ताः पुरोन पुराणीव शुभ्राः दीप्ताः बबृहाणस्यवर्धमानस्यअद्रेर्मेघस्य वापर्वतस्यवापरिपरितः स्रुचः सरणशीलाः ॥ १२ ॥