आ दैव्या᳚नि॒ पार्थि᳚वानि॒ जन्मा॒पश्चाच्छा॒ सुम᳚खाय वोचम् ।
वर्ध᳚न्तां॒ द्यावो॒ गिर᳚श्च॒न्द्राग्रा᳚ उ॒दा व᳚र्धन्ताम॒भिषा᳚ता॒ अर्णा᳚ः ॥
वर्ध᳚न्तां॒ द्यावो॒ गिर᳚श्च॒न्द्राग्रा᳚ उ॒दा व᳚र्धन्ताम॒भिषा᳚ता॒ अर्णा᳚ः ॥
पदपाठः (Word-by-word)
आ । दैव्या᳚नि । पार्थि᳚वानि । जन्म᳚ । अ॒पः । च॒ । अच्छ᳚ । सु॑म᳚खाय । वो॒च॒म् ।
वर्ध᳚न्ताम् । द्यावः᳚ । गिरः᳚ । च॒न्द्र॑अ᳚ग्राः । उ॒दा । व॒र्ध॒न्ता॒म् । अ॒भि॑सा᳚ताः । अर्णाः᳚ ॥
वर्ध᳚न्ताम् । द्यावः᳚ । गिरः᳚ । च॒न्द्र॑अ᳚ग्राः । उ॒दा । व॒र्ध॒न्ता॒म् । अ॒भि॑सा᳚ताः । अर्णाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
दैव्यानि देवसंबंधीनि पार्थिवानि पृथिवीसंबंधीनिच जन्म जन्मानि अपश्च अपसाच्छाभिप्ताप्तुंसुमखायशोभनयज्ञाय मरुद्गणायवोचं –ब्रवीमिगिरः स्तुतयोर्वर्धंतां द्यावोद्योतमानाः स्वप्रतिपाद्यार्थप्रकाशिन्यः चन्द्राग्राः आह्लादनंहिरण्यंवा अग्ने यासां तास्तादृश्यः सत्योवर्धन्तां अर्णाः नद्यश्चअभिषाताः मरुद्भिः संभक्ताः उदा उदकेनवर्धन्तां समृद्धाभवन्तु ॥ १४ ॥