श्रवणम्

5.41.6 समानपद
प्र वो᳚ वा॒युं र᳚थ॒युजं᳚ कृणुध्वं॒ प्र दे॒वं विप्रं᳚ पनि॒तार᳚म॒र्कैः ।
इ॒षु॒ध्यव᳚ ऋत॒साप॒ः पुरं᳚धी॒र्वस्वी᳚र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धु᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । वा॒युम् । र॒थ॒॑युज᳚म् । कृ॒णु॒ध्व॒म् । प्र । दे॒वम् । विप्र᳚म् । प॒नि॒तार᳚म् । अ॒र्कैः ।
इ॒षु॒ध्यवः᳚ । ऋ॒त॒॑सापः᳚ । पुर᳚म्॑धीः । वस्वीः᳚ । नः॒ । अत्र᳚ । पत्नीः᳚ । आ । धि॒ये । धु॒रिति᳚ धुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमदीयाऋत्विजोवोयूयंवायुंवायुदेवंरथयुजं यज्ञगमनाय रथसंबद्धंकृणुध्वं कुरुध्वं प्रदेवं द्योतमानं विप्रं विशेषेणकामानांपूरकं विप्रवत्पूज्यंवा पनितारं कर्मणिकर्तृप्रत्ययः स्तुत्यमित्यर्थः फलप्रदातारंवा अर्कैरर्चनीयसाधनैर्मंत्रैः प्रकृणुध्वं स्तुत किंच इषुध्यवः गंत्र्यः ऋतसापः यज्ञस्पृशः पुरंधीः पुरंध्यः स्त्रीरूपाः रूपवत्योवावस्वीः प्रशंस्यापत्नीर्देवपत्न्योत्रास्मिन्यज्ञेनोस्मदीयायधियेकर्मणेतन्निष्पत्त -येआधः आगतवत्यः ॥ ६ ॥