श्रवणम्

5.41.9 समानपद
तु॒जे न॒स्तने॒ पर्व᳚ताः सन्तु॒ स्वैत᳚वो॒ ये वस᳚वो॒ न वी॒राः ।
प॒नि॒त आ॒प्त्यो य᳚ज॒तः सदा᳚ नो॒ वर्धा᳚न्न॒ः शंसं॒ नर्यो᳚ अ॒भिष्टौ᳚ ॥
▶ पदपाठः (Word-by-word)
तु॒जे । नः॒ । तने᳚ । पर्व᳚ताः । स॒न्तु॒ । स्व॑ए᳚तवः । ये । वस᳚वः । न । वी॒राः ।
प॒नि॒तः । आ॒प्त्यः । य॒ज॒तः । सदा᳚ । नः॒ । वर्धा᳚त् । नः॒ । शंस᳚म् । नर्यः᳚ । अ॒भिष्टौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर्वताः पर्ववन्तः पुराणवन्तोमेघाः तनेविस्तृतेतुजेदाने यद्वा तनेतिपुत्रनाम षष्ठ्यर्थेचतुर्थी पुत्रस्यदानइत्यर्थः अथवा नस्तुजेपुत्रेतनेतत्पुत्रेच स्वैतवः शोभनमनाः सन्तु भवन्तु कीदृशास्ते येवसवः जगतोवासयितारः वीरान वीराइव किंच पनितः स्तुतः आप्त्यः आप्तव्यः सर्वैर्यजतोयजनीयआदित्यः सदासर्वदा नः शंसं अस्माकंस्तुतिं नर्योनरेभ्योहितोदेवः अभिष्टौ अभिगतएषणे अभिगमनेवासति वर्धात् वर्दयेत् ॥ ९ ॥