तां वो᳚ देवाः सुम॒तिमू॒र्जय᳚न्ती॒मिष᳚मश्याम वसव॒ः शसा॒ गोः ।
सा नः᳚ सु॒दानु᳚र्मृ॒ळय᳚न्ती दे॒वी प्रति॒ द्रव᳚न्ती सुवि॒ताय᳚ गम्याः ॥
सा नः᳚ सु॒दानु᳚र्मृ॒ळय᳚न्ती दे॒वी प्रति॒ द्रव᳚न्ती सुवि॒ताय᳚ गम्याः ॥
पदपाठः (Word-by-word)
ताम् । वः॒ । दे॒वाः॒ । सु॒॑म॒तिम् । ऊ॒र्जय᳚न्तीम् । इष᳚म् । अ॒श्या॒म॒ । व॒स॒वः॒ । शसा᳚ । गोः ।
सा । नः॒ । सु॒॑दानुः᳚ । मृ॒ळय᳚न्ती । दे॒वी । प्रति᳚ । द्रव᳚न्ती । सु॒वि॒ताय᳚ । ग॒म्याः॒ ॥
सा । नः॒ । सु॒॑दानुः᳚ । मृ॒ळय᳚न्ती । दे॒वी । प्रति᳚ । द्रव᳚न्ती । सु॒वि॒ताय᳚ । ग॒म्याः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवाः हेवसवोवासयितारोवोयुष्माकं स्वभूतांतांप्रसिद्धां सुमतिंशोभनमननसाधनां अन्नेनमतिवृद्धिरन्नमयं हिसौम्यमनइत्यादिषुप्रसिद्धा ऊर्जयन्तींबलकरीं इषंएषणसाधनमन्नं क्षीरदध्यादिलक्षणं शसास्तुत्या गोःसकाशादश्यामप्राप्नुयाम सादेवी नोस्मान् सुवितायसुखाय प्रतिगम्याःप्रतिगम्यात् अभिगच्छेत् साइट्देवताविशेष्यते सुदानुःशोभनदानामृळयन्तीसुखयन्ती द्रवन्तीअस्मदभिमुखंगच्छन्ती ॥ १८ ॥