वृष्णो᳚ अस्तोषि भू॒म्यस्य॒ गर्भं᳚ त्रि॒तो नपा᳚तम॒पां सु᳚वृ॒क्ति ।
गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के᳚शो॒ नि रि᳚णाति॒ वना᳚ ॥
गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के᳚शो॒ नि रि᳚णाति॒ वना᳚ ॥
पदपाठः (Word-by-word)
वृष्णः᳚ । अ॒स्तो॒षि॒ । भू॒म्यस्य᳚ । गर्भ᳚म् । त्रि॒तः । नपा᳚तम् । अ॒पाम् । सु॒॑वृ॒क्ति ।
गृ॒णी॒ते । अ॒ग्निः । ए॒तरि᳚ । न । शू॒षैः । शो॒चिः॑के᳚शः । नि । रि॒णा॒ति॒ । वना᳚ ॥
गृ॒णी॒ते । अ॒ग्निः । ए॒तरि᳚ । न । शू॒षैः । शो॒चिः॑के᳚शः । नि । रि॒णा॒ति॒ । वना᳚ ॥
सायणभाष्यम् (Sayana Commentary)
भूम्यस्य भूमिरंतरिक्षं तदर्हस्यतादृशस्य वृष्णोवर्षकस्यपर्जन्यस्य अथवाभूम्योभूमेरेवार्हः तदुचितवृष्टिप्रदानात् तादृशस्यमेघस्यगर्भंगर्भस्थानीयं अपांनपातं रक्षकं वैद्युतमग्निं सुवृक्ति स्तोत्रकर्मैतत् शोभनपापादिवर्जनवतास्तोत्रेण अस्तोषि स्तुतवानहं सत्रितस्तीर्णतमः त्रिषुस्थानेषुत्रित्वापन्नेषुतायमानोग्निः एतरिगन्तरिमयि शूषैः सुखकरैः रश्मिभिः नगृणीते नगरणंकुरुते नक्रुध्यतीत्यर्थः किंतु शोचिष्केशः प्रदीप्तरश्मिः सन् वना वनानि निरिणाति हिनस्ति दहतीत्यर्थः ॥ १० ॥