क॒था म॒हे रु॒द्रिया᳚य ब्रवाम॒ कद्रा॒ये चि᳚कि॒तुषे॒ भगा᳚य ।
आप॒ ओष᳚धीरु॒त नो᳚॑वन्तु॒ द्यौर्वना᳚ गि॒रयो᳚ वृ॒क्षके᳚शाः ॥
आप॒ ओष᳚धीरु॒त नो᳚॑वन्तु॒ द्यौर्वना᳚ गि॒रयो᳚ वृ॒क्षके᳚शाः ॥
पदपाठः (Word-by-word)
क॒था । म॒हे । रु॒द्रिया᳚य । ब्र॒वा॒म॒ । कत् । रा॒ये । चि॒कि॒तुषे᳚ । भगा᳚य ।
आपः᳚ । ओष᳚धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना᳚ । गि॒रयः᳚ । वृ॒क्ष॑के᳚शाः ॥
आपः᳚ । ओष᳚धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना᳚ । गि॒रयः᳚ । वृ॒क्ष॑के᳚शाः ॥
सायणभाष्यम् (Sayana Commentary)
बयमत्रयः कथा केनप्रकारेण महे महते रुद्रियाय रुद्रपुत्राय मरुद्गणाय ब्रवाम स्तुतीः कत् किंच स्तोत्रं राये धनलाभाय चिकितुषे सर्वंजानते भगायैतन्नामकायदेवायब्रवाम उतापिच आपः अब्देवताः ओषधीरोषधयोद्यौर्द्युदेवतावनावनानि गिरयोवृक्षकेशाः वृक्षाएवकेशस्थानीयायेषांते एता उक्तदेवतानोस्मानवन्तुरक्षन्तु ॥ ११ ॥