श्रवणम्

5.41.13
वि॒दा चि॒न्नु म᳚हान्तो॒ ये व॒ एवा॒ ब्रवा᳚म दस्मा॒ वार्यं॒ दधा᳚नाः ।
वय᳚श्च॒न सु॒भ्व१॒᳚ आव᳚ यन्ति क्षु॒भा मर्त॒मनु᳚यतं वध॒स्नैः ॥
▶ पदपाठः (Word-by-word)
वि॒द । चि॒त् । नु । म॒हा॒न्तः॒ । ये । वः॒ । एवाः᳚ । ब्रवा᳚म । द॒स्माः॒ । वार्य᳚म् । दधा᳚नाः ।
वयः᳚ । च॒न । सु॒॑भ्वः᳚ । आ । अव᳚ । य॒न्ति॒ । क्षु॒भा । मर्त᳚म् । अनु᳚॑यतम् । व॒ध॒॑स्नैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमहान्तोमरुतोनु क्षिप्रं यूयं विद जानीथस्तोत्रं हेदस्माः दर्शनीयाः वोयुष्मान्यीवाः गन्तारोयुष्मान् भजमानाः वार्यंवरणीयंहविः दधानाः ददानाधारयन्तोवावयंब्रवामस्तुतिं यद्वा येवः यूयमित्यर्थः येयूयमेवाः अस्मद्यज्ञंअभिगन्तारः तेविद चिदितिपूरणः वयश्चन आगन्ता रश्चैतेमरुतः सुभ्वः सुष्ठुभवन्तः प्रवृद्धाः आ अस्मदभिमुखमवयन्ति गच्छन्ति किंकुर्वन्तः क्षुभा क्षोभकेणसहितंमर्तंमरणधर्माणंवैरिणं अनुयतं अभिगतं वधस्नैरायुधैः परिहरन्तोवयन्ति ॥ १३ ॥