आ वां॒ येष्ठा᳚श्विना हु॒वध्यै॒ वात᳚स्य॒ पत्म॒न्रथ्य᳚स्य पु॒ष्टौ ।
उ॒त वा᳚ दि॒वो असु᳚राय॒ मन्म॒ प्रान्धां᳚सीव॒ यज्य᳚वे भरध्वम् ॥
उ॒त वा᳚ दि॒वो असु᳚राय॒ मन्म॒ प्रान्धां᳚सीव॒ यज्य᳚वे भरध्वम् ॥
पदपाठः (Word-by-word)
आ । वा॒म् । येष्ठा᳚ । अ॒श्वि॒ना॒ । हु॒वध्यै᳚ । वात᳚स्य । पत्म᳚न् । रथ्य᳚स्य । पु॒ष्टौ ।
उ॒त । वा॒ । दि॒वः । असु᳚राय । मन्म᳚ । प्र । अन्धां᳚सि॑इव । यज्य᳚वे । भ॒र॒ध्व॒म् ॥
उ॒त । वा॒ । दि॒वः । असु᳚राय । मन्म᳚ । प्र । अन्धां᳚सि॑इव । यज्य᳚वे । भ॒र॒ध्व॒म् ॥
सायणभाष्यम् (Sayana Commentary)
अनयाश्विनौ रुद्रश्चोच्यन्ते हेअश्विना अश्विनौ येष्ठा कामानांयंतृतमौ वां युवां वातस्यपत्मन् धर्मसाम्याद्धर्मिग्रहणं वायुसमानगतेरश्वस्यगमनेप्राप्तौ रथ्यस्य रथस्यपुष्टौच निमित्तेसति हुवध्यै हुवे आह्वयामि आह्वातुंप्रभवामि वा अथवा वायुवद्युवयोः शीघ्रगमनसाधनरथस्यपोषेचनिमित्तेसति उतवा किंचेत्यर्थः दिवोद्योतमानाय चतुर्थ्यर्थेषष्ठी असुरायप्राणापहर्त्रेरुद्राय यद्वा द्युलोकसंबन्धिने असुरायप्राणदात्रे सूर्यायवायवेवा यज्यवे यागसाधकाय मन्ममननीयंस्तोत्रंप्रभरध्वं संपादयत हेऋत्विजः अन्धांसीव अन्नानिहविर्लक्षणानिहवींषिस्तोत्रंचेत्यर्थः ॥ ३ ॥