श्रवणम्

5.41.17
इति᳚ चि॒न्नु प्र॒जायै᳚ पशु॒मत्यै॒ देवा᳚सो॒ वन᳚ते॒ मर्त्यो᳚ व॒ आ दे᳚वासो वनते॒ मर्त्यो᳚ वः ।
अत्रा᳚ शि॒वां त॒न्वो᳚ धा॒सिम॒स्या ज॒रां चि᳚न्मे॒ निरृ᳚तिर्जग्रसीत ॥
▶ पदपाठः (Word-by-word)
इति᳚ । चि॒त् । नु । प्र॒॑जायै᳚ । प॒शु॒॑मत्यै᳚ । देवा᳚सः । वन᳚ते । मर्त्यः᳚ । वः॒ । आ । दे॒वा॒सः॒ । व॒न॒ते॒ । मर्त्यः᳚ । वः॒ ।
अत्र᳚ । शि॒वाम् । त॒न्वः᳚ । धा॒सिम् । अ॒स्याः । ज॒राम् । चि॒त् । मे॒ । निः॑ऋ᳚तिः । ज॒ग्र॒सी॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवासोदेवाः वोयुष्मान् इतिचित् इत्थमेव नु क्षिप्रं प्रजायै पशुमत्यै पशुसहितायापत्याय वनते भजते मर्त्योमनुष्योयजमानः आदेवासइतिपुनरुक्तिरादरार्था अत्रास्मिन्यज्ञे शिवांधासिं अन्नं मे मम अस्यास्तन्वोदेवैरनुगृहीतस्यपुत्रस्य करोतु निरृतिर्देवता जरांचित् जरांच जग्रसीतग्रसतु ॥ १७ ॥