ते नो᳚ मि॒त्रो वरु᳚णो अर्य॒मायुरिन्द्र᳚ ऋभु॒क्षा म॒रुतो᳚ जुषन्त ।
नमो᳚भिर्वा॒ ये दध᳚ते सुवृ॒क्तिं स्तोमं᳚ रु॒द्राय᳚ मी॒ळ्हुषे᳚ स॒जोषा᳚ः ॥
नमो᳚भिर्वा॒ ये दध᳚ते सुवृ॒क्तिं स्तोमं᳚ रु॒द्राय᳚ मी॒ळ्हुषे᳚ स॒जोषा᳚ः ॥
पदपाठः (Word-by-word)
ते । नः॒ । मि॒त्रः । वरु᳚णः । अ॒र्य॒मा । आ॒युः । इन्द्रः᳚ । ऋ॒भु॒क्षाः । म॒रुतः᳚ । जु॒ष॒न्त॒ ।
नमः᳚॑भिः । वा॒ । ये । दध᳚ते । सु॒॑वृ॒क्तिम् । स्तोम᳚म् । रु॒द्राय᳚ । मी॒ळ्हुषे᳚ । स॒॑जोषाः᳚ ॥
नमः᳚॑भिः । वा॒ । ये । दध᳚ते । सु॒॑वृ॒क्तिम् । स्तोम᳚म् । रु॒द्राय᳚ । मी॒ळ्हुषे᳚ । स॒॑जोषाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तेमित्रादयोदेवाः नोस्माकं सुवृक्तिं स्तोमं शोभनपापादिवर्जनवत् स्तोत्रं नमोभिर्वाहविर्भिश्च जुषंत सेवन्तां येदधतेधारयन्ति उक्तलक्षणंस्तोत्रं देवाःद्विविधाः स्तोत्रभाजोहविर्भाजश्च अत्रस्तोत्रभाजउच्यन्ते आयुः सततगतिर्वायुरुच्यते अथमरुतएववियुज्यविशेष्यन्ते रुद्रायमीह्ळुषे तृतीयार्थेचतुर्थी रुद्रेणसहसजोषाः सजोषसः सहप्रीयमाणाः तेषांपुत्रत्वादितिभावः केचन रुद्रायसजोषाइत्येतन्मित्रादिसर्वदेवताविशेषणमितिकथयन्ति ॥ २ ॥