श्रवणम्

5.41.8
अ॒भि वो᳚ अर्चे पो॒ष्याव᳚तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा᳚रं॒ ररा᳚णः ।
धन्या᳚ स॒जोषा᳚ धि॒षणा॒ नमो᳚भि॒र्वन॒स्पती{4}॒रोष᳚धी रा॒य एषे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । वः॒ । अ॒र्चे॒ । पो॒ष्या॑व᳚तः । नॄन् । वास्तोः᳚ । पति᳚म् । त्वष्टा᳚रम् । ररा᳚णः ।
धन्या᳚ । स॒॑जोषाः᳚ । धि॒षणा᳚ । नमः᳚॑भिः । वन॒स्पती᳚न् । ओष᳚धीः । रा॒यः । एषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं पोष्यावतोबहुपोष्यजनयुक्तान् नॄन्कर्मनेतॄन् वोयुष्मानभ्यर्चे अभिपूजयामि स्तौमीत्यर्थः केपुनस्तेयूयं उच्यते-वास्तोष्पतिंत्वष्टारंरराणः स्तोत्रादिभिः क्रीडन् हविर्ददद्वाहंधन्याधनकरीसजोषाः इतरदेवैः सहगच्छन्तीप्रीणयन्तीवा धिषणा वाङ्नामैतत् वाग्देवता एताद्वितीयार्थेप्रथमा उक्तलक्षणांवाणींवनस्पतीनोषधीश्च नमोभिः सहार्चइतिसंबन्धः किमर्थं रायएषे धनानिप्राप्तुम् ॥ ८ ॥