श्रवणम्

5.41.1
को नु वां᳚ मित्रावरुणावृता॒यन्दि॒वो वा᳚ म॒हः पार्थि᳚वस्य वा॒ दे ।
ऋ॒तस्य᳚ वा॒ सद᳚सि॒ त्रासी᳚थां नो यज्ञाय॒ते वा᳚ पशु॒षो न वाजा᳚न् ॥
▶ पदपाठः (Word-by-word)
कः । नु । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒॑यन् । दि॒वः । वा॒ । म॒हः । पार्थि᳚वस्य । वा॒ । दे ।
ऋ॒तस्य᳚ । वा॒ । सद᳚सि । त्रासी᳚थाम् । नः॒ । य॒ज्ञ॒॑य॒ते । वा॒ । प॒शु॒॑सः । न । वाजा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिमित्रावरुणौ देवौ वांयुवां कोनु कःखलुयजमानः ऋतायन् यज्ञमिच्छन् शक्नुयादितिशेषः तस्मात्कृतंमयैवदिवः सदसिद्युलोकसंबन्धिनिस्थाने महोमहतः पार्थिवस्यसदसि ऋतस्योत्पादकस्यांतरिक्षस्यसदसि तद्धेतुत्वात्ताच्छब्द्यं त्रिषुस्थानेषुनोस्मान् त्रासीथां रक्षतं वाशब्दश्चार्थे किंच यज्ञायते यज्ञमिच्छते हविर्दात्रेच मह्यं पशुषोनवाजान् पशुषुसीदतोवाजानन्नानिक्षीरदध्यादीनीवतानियथाप्रयच्छथः तद्वदवतमिति यद्वा नशब्दश्चार्थे पशुषः पशून्वाजांश्चदत्तमित्यर्थः ॥ १ ॥