श्रवणम्

5.41.4
प्र स॒क्षणो᳚ दि॒व्यः कण्व᳚होता त्रि॒तो दि॒वः स॒जोषा॒ वातो᳚ अ॒ग्निः ।
पू॒षा भगः᳚ प्रभृ॒थे वि॒श्वभो᳚जा आ॒जिं न ज᳚ग्मुरा॒श्व᳚श्वतमाः ॥
▶ पदपाठः (Word-by-word)
प्र । स॒क्षणः᳚ । दि॒व्यः । कण्व᳚॑होता । त्रि॒तः । दि॒वः । स॒॑जोषाः᳚ । वातः᳚ । अ॒ग्निः ।
पू॒षा । भगः᳚ । प्र॒॑भृ॒थे । वि॒श्व॑भो᳚जाः । आ॒जिम् । न । ज॒ग्मुः॒ । आ॒श्व᳚श्व॑तमाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रलिंगोक्तादेवताः प्रजग्मुरितिसंबन्धः सक्षणोयज्ञंसेवमानाः शत्रूणांसोढावादिव्योदिविभवः कण्वहोता कण्वाऋषयोमेधाविनोवाहोतारआह्वातारोयस्यसतथोक्तः त्रितः त्रिषुक्षित्यादिस्थानेषु तायमानोदिवः सूर्येणसहसजोषाः समानगातिः समानप्रीतिर्वा वातः उक्तलक्षणकोवायुरग्निःपूषापोषकएतन्नामाभगश्चप्रभृथे प्रभरणवत्यस्मिन्यज्ञेउक्ताःसर्वेदेवाः विश्वभोजाविश्वरक्षकाः कृत्स्नात्तारोवा आश्वश्वतमाः प्रकृष्टगमनाश्ववतांश्रेष्ठाः सन्तः आजिंन संग्राममिव प्रजग्मुः प्रगच्छन्ति ॥ ४ ॥