श्रवणम्

5.18.4
चि॒त्रा वा॒ येषु॒ दीधि᳚तिरा॒सन्नु॒क्था पान्ति॒ ये ।
स्ती॒र्णं ब॒र्हिः स्व᳚र्णरे॒ श्रवां᳚सि दधिरे॒ परि᳚ ॥
▶ पदपाठः (Word-by-word)
चि॒त्रा । वा॒ । येषु᳚ । दीधि᳚तिः । आ॒सन् । उ॒क्था । पान्ति᳚ । ये ।
स्ती॒र्णम् । ब॒र्हिः । स्वः᳚॑नरे । श्रवां᳚सि । द॒धि॒रे॒ । परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येषुऋत्विक्षु चित्रानानाविधादीधितिः यज्ञविषयाक्रियाभवति ये आसन् आस्ये उक्थाउक्थानि स्तोत्राणि पान्ति रक्षन्ति तैरृत्विग्भिःस्तीर्णं स्तीर्णस्यबर्हिः बर्हिषः पर्युपरिश्रवांसि अन्नानि हवींषि स्वर्नरेः स्वःस्वर्गंनरंयजमानंनयतीतिस्वर्णरोयज्ञः तस्मिन् निदधिरे निधीयन्ते ॥ ४ ॥