श्रवणम्

5.18.2
द्वि॒ताय᳚ मृ॒क्तवा᳚हसे॒ स्वस्य॒ दक्ष᳚स्य मं॒हना᳚ ।
इन्दुं॒ स ध᳚त्त आनु॒षक्स्तो॒ता चि᳚त्ते अमर्त्य ॥
▶ पदपाठः (Word-by-word)
द्वि॒ताय᳚ । मृ॒क्त॑वा᳚हसे । स्वस्य᳚ । दक्ष᳚स्य । मं॒हना᳚ ।
इन्दु᳚म् । सः । ध॒त्ते॒ । आ॒नु॒षक् । स्तो॒ता । चि॒त् । ते॒ । अ॒म॒र्त्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने द्विताय द्वितानाम्नेत्रिपुत्राय मृक्तवाहसे मृक्तंशुद्धंहविर्देवेभ्योवहतिप्रापयतीतिमृक्तवाहः तस्मै स्वस्य आत्मीयस्यदक्षस्यबलस्यधनस्यवा मंहनामंहनायै दानायभव हेअमर्त्य नित्याग्ने यतः कारणात् तेतुभ्यंसमृक्तमृक्तवाहाः आनुषक् सर्वदाआनुषक्तमिन्दुंसोमंधत्ते धारयति स्तोताचित् स्तोताचभवति ॥ २ ॥