तं वो᳚ दी॒र्घायु᳚शोचिषं गि॒रा हु᳚वे म॒घोना᳚म् ।
अरि᳚ष्टो॒ येषां॒ रथो॒ व्य᳚श्वदाव॒न्नीय᳚ते ॥
अरि᳚ष्टो॒ येषां॒ रथो॒ व्य᳚श्वदाव॒न्नीय᳚ते ॥
पदपाठः (Word-by-word)
तम् । वः॒ । दी॒र्घायु᳚॑शोचिषम् । गि॒रा । हु॒वे॒ । म॒घोना᳚म् ।
अरि᳚ष्टः । येषा᳚म् । रथः᳚ । वि । अ॒श्व॒॑दा॒व॒न् । ईय᳚ते ॥
अरि᳚ष्टः । येषा᳚म् । रथः᳚ । वि । अ॒श्व॒॑दा॒व॒न् । ईय᳚ते ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने दीर्घायुशोचिषं दीर्घगमनदीप्तिं तं वः पूजायांबहुवचनं त्वांमघोनां धनिनां कृते गिरा स्तोत्रेण हुवे आह्वयामि हेअश्वदावन् अश्वानांदातः येषांधनिनांरथः युद्धेषु अरिष्टः शत्रुभिरहिंसितोविनीयते विगच्छतु ॥ ३ ॥