ए॒वा ते᳚ अग्ने सुम॒तिं च᳚का॒नो नवि᳚ष्ठाय नव॒मं त्र॒सद᳚स्युः ।
यो मे॒ गिर᳚स्तुविजा॒तस्य᳚ पू॒र्वीर्यु॒क्तेना॒भि त्र्य᳚रुणो गृ॒णाति᳚ ॥
यो मे॒ गिर᳚स्तुविजा॒तस्य᳚ पू॒र्वीर्यु॒क्तेना॒भि त्र्य᳚रुणो गृ॒णाति᳚ ॥
पदपाठः (Word-by-word)
ए॒व । ते॒ । अ॒ग्ने॒ । सु॒॑म॒तिम् । च॒का॒नः । नवि᳚ष्ठाय । न॒व॒मम् । त्र॒सद᳚स्युः ।
यः । मे॒ । गिरः᳚ । तु॒वि॒॑जा॒तस्य᳚ । पू॒र्वीः । यु॒क्तेन᳚ । अ॒भि । त्रि॑अ᳚रुणः । गृ॒णाति᳚ ॥
यः । मे॒ । गिरः᳚ । तु॒वि॒॑जा॒तस्य᳚ । पू॒र्वीः । यु॒क्तेन᳚ । अ॒भि । त्रि॑अ᳚रुणः । गृ॒णाति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यस्त्र्यरुणः तुविजातस्य बह्वपत्यस्य मे पूर्वीर्बह्वीः गिरः स्तुतीः श्रुत्वाप्रीतः सन् युक्तेनाभियुक्तेनमनसा अभिगृणाति इदंगृहाणेदंगृहाणेतियथामांब्रवीति एव एवं हेअग्ने नविष्ठाय अत्यन्तंस्तुत्याय ते तुभ्यं नवमं नवतमांसुमतिंस्तुतिंचकानः कामयमानस्त्रसदस्युरपिइदंगृहाणेदंगृहाणेतिमांप्रार्थितवान् ॥ ३ ॥