ए॒वेन्द्रा॒ग्निभ्या॒महा᳚वि ह॒व्यं शू॒ष्यं᳚ घृ॒तं न पू॒तमद्रि᳚भिः ।
ता सू॒रिषु॒ श्रवो᳚ बृ॒हद्र॒यिं गृ॒णत्सु᳚ दिधृत॒मिषं᳚ गृ॒णत्सु᳚ दिधृतम् ॥
ता सू॒रिषु॒ श्रवो᳚ बृ॒हद्र॒यिं गृ॒णत्सु᳚ दिधृत॒मिषं᳚ गृ॒णत्सु᳚ दिधृतम् ॥
पदपाठः (Word-by-word)
ए॒व । इ॒न्द्रा॒ग्नि॑भ्या᳚म् । अहा᳚वि । ह॒व्यम् । शू॒ष्य᳚म् । घृ॒तम् । न । पू॒तम् । अद्रि᳚॑भिः ।
ता । सू॒रिषु᳚ । श्रवः᳚ । बृ॒हत् । र॒यिम् । गृ॒णत्॑सु᳚ । दि॒धृ॒त॒म् । इष᳚म् । गृ॒णत्॑सु᳚ । दि॒धृ॒त॒म् ॥
ता । सू॒रिषु᳚ । श्रवः᳚ । बृ॒हत् । र॒यिम् । गृ॒णत्॑सु᳚ । दि॒धृ॒त॒म् । इष᳚म् । गृ॒णत्॑सु᳚ । दि॒धृ॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
एव एवं इदानींक्रियमाणप्रकारेणस्तुतिसाहित्येनेत्यर्थः इन्द्राग्निभ्यां हव्यं हविः अहावि परित्यक्तमासीत् कीदृशंतत् शूष्यं बलकरं किमिव अद्रिभिर्ग्रावभिः पूतमभिषुतं घृतंन सोमरसमिव तद्यथायुवाभ्यांप्रदीयते तद्वच्चरुपुरोडाशादिकमपि ता तौदेवौ सूरिषु मेधा- विष्वस्मासु बृहत्प्रभूतं श्रवोन्नं यशोवा रयिंधनंच दिधृतं धारयतं इषमन्नं गृणत्सु स्तुवत्सु दिधृतंपुनरुक्तिरादरार्था ॥ ६ ॥
प्रवोमहइतिनवर्चंपंचदशंसूक्तं एवयामरुदाख्यस्यात्रेयस्यमुनेरार्षं मरुद्देवताकमतिजगतीछन्दस्कं तथाचानुक्रमणिका-प्रवोनवैवया- मरुन्मारुतमतिजागतमिति । दशरात्रेषष्ठेहनितृतीयसवनेच्छावाकशस्त्रे इदंसूक्तं सूत्रितंच-एवयामरुदुक्तोवृषाकपिनेति ।