श्रवणम्

5.86.1
इन्द्रा᳚ग्नी॒ यमव᳚थ उ॒भा वाजे᳚षु॒ मर्त्य᳚म् ।
दृ॒ळ्हा चि॒त्स प्र भे᳚दति द्यु॒म्ना वाणी᳚रिव त्रि॒तः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । यम् । अव᳚थः । उ॒भा । वाजे᳚षु । मर्त्य᳚म् ।
दृ॒ळ्हा । चि॒त् । सः । प्र । भे॒द॒ति॒ । द्यु॒म्ना । वाणीः᳚॑इव । त्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी उभा उभौ परस्परावियुक्तौ युवां यंमर्त्यमवथः रक्षथः वाजेषु संग्रामेषु समर्त्योदृह्ळाचित् दृढान्यपिद्युम्ना द्योतमानानि धनानिशत्रुसंबन्धीनि प्रभेदति प्रकर्षेणभिनत्ति त्रितऋषिर्वाणीरिव प्रतिवादिवाक्यानीव अथवा त्रिषुस्थानेषु वर्तमानोग्निः शत्रूणां वाक्यानीव ॥ १ ॥