श्रवणम्

5.86.2
या पृत᳚नासु दु॒ष्टरा॒ या वाजे᳚षु श्र॒वाय्या᳚ ।
या पञ्च᳚ चर्ष॒णीर॒भी᳚न्द्रा॒ग्नी ता ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
या । पृत᳚नासु । दु॒स्तरा᳚ । या । वाजे᳚षु । श्र॒वाय्या᳚ ।
या । पञ्च᳚ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति᳚ । ता । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

या याविन्द्राग्नी पृतनासु संग्रामेषु दुष्टरा दुष्टरौ अनभिभाव्यौ या यौच वाजेषु संग्रामेषु अन्नेषुवा श्रवाय्या श्रवाय्यौ स्तुत्यौ या यौ पंचचर्षणीः चर्षणयोमनुष्याः तानभिरक्षतइतिशेषः ता तौ महानुभावौहवामहे स्तुमः ॥ २ ॥