अत्रि॒ः सूर्य᳚स्य दि॒वि चक्षु॒राधा॒त्स्व᳚र्भानो॒रप᳚ मा॒या अ᳚घुक्षत् ॥
पदपाठः (Word-by-word)
अत्रिः᳚ । सूर्य᳚स्य । दि॒वि । चक्षुः᳚ । आ । अ॒धा॒त् । स्वः᳚॑भानोः । अप᳚ । मा॒याः । अ॒घु॒क्ष॒त् ॥
सायणभाष्यम् (Sayana Commentary)
ब्रह्मा ब्राह्मणोत्रिः ग्राव्णः अभिषवसाधनाययुयुजानः युंजन् इन्द्रार्थंसोममभिषुण्वन्नित्यर्थः तथा कीरिण कीर्यतेविक्षिप्यतेइतिकीरि स्तोत्रं तेनदेवान् सपर्यन् पूजयन् किंच नमसान्नेनहविर्लक्षणेननमस्कारेणवा उपशिक्षन् शिक्षतिर्दानार्थोत्रप्रसाधनेवर्तते प्रसाधयन् एवमुक्तैः साधनैः सूर्यस्यसर्वप्रेरकस्यचक्षुः सर्वस्यव्यापकंमंडलं दिवि अन्तरिक्षे आधात् निस्तमस्कंकृतवानित्यर्थः तदेवस्पष्टयति-स्वर्भानोरेतन्नामकस्यासुरस्यमायाः स्वाश्रयमया मोहयन्ती परान् तथाकुर्वन्ती मायेत्युच्यते तादृशीर्मायाः तुरीयेण ब्रह्मणेत्युक्तं तदेतदुक्तं यत्तुरीयंब्रह्मतेनात्रिः सहायः इन्द्रोपाघुक्षत् अपजुगोप न्यवारयदित्यर्थः अथवातृतीयपादएवंव्याख्येयः सूर्यस्यदिविपूर्वमावृतेप्रकाशेतदपनोद्यस्वकीयंचक्षुराधात् निवारणंतेजः संस्त्यायंदृष्टवानित्यर्थः स्वर्भानुमाययासूर्यस्यावृत्तिः हारिद्रविकेसमाम्नातास्वर्भानुश्चासुरःसूर्यंतमसाविध्यत्तस्मैदेवाःप्रायश्चित्तिमैच्छन् तस्ययत्प्रथमंतमोपाघ्नन् साकृष्णाविरभवद्यद्दितीयं -साफाल्गुनीयत्तृतीयंसावलक्षीयदध्यस्थादपाकृंतन्नित्यादि ॥ ८ ॥