श्रवणम्

5.62.6
अक्र᳚विहस्ता सु॒कृते᳚ पर॒स्पा यं त्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः ।
राजा᳚ना क्ष॒त्रमहृ᳚णीयमाना स॒हस्र᳚स्थूणं बिभृथः स॒ह द्वौ ॥
▶ पदपाठः (Word-by-word)
अक्र᳚वि॑हस्ता । सु॒॑कृते᳚ । प॒रः॒॑पा । यम् । त्रासा᳚थे इति᳚ । व॒रु॒णा॒ । इळा᳚सु । अ॒न्तरिति᳚ ।
राजा᳚ना । क्ष॒त्रम् । अहृ᳚णीयमाना । स॒हस्र᳚॑स्थूणम् । बि॒भृ॒थः॒ । स॒ह । द्वौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अक्रविहस्ता अकृपणहस्तौ दानशूरावित्यर्थः कस्मै सुकृते शोभनस्तुतिकर्त्रे परस्पा परस्तात्पातारौ रक्षितारौ हेवरुणा मित्रावरुणौ युवां यंयजमानं इळासु यागभूमिषु अन्तर्मध्ये त्रासाथे रक्षथः तस्मै सुकृते अक्रविहस्ता परस्पाचभवथेतिसंबन्धः किंच युवांराजाना राज- मानौ अहृणीयमाना अक्रुध्यन्तौ द्वौ परस्परंसहसहित्येन क्षत्रं धनं सहस्रस्थूणं अनेकावष्टंभकस्तंभोपेतं सौधादिरूपंगृहंच बिभृथोधारयथः सुकृते यजमानाय अथवा क्षत्रं बलं अपरिमिताभिः स्थूणाभिरुपेतंरथंचागमनार्थं सहधारयथः ॥ ६ ॥