श्रवणम्

5.62.2
तत्सु वां᳚ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह᳚भिर्दुदुह्रे ।
विश्वा᳚ः पिन्वथ॒ः स्वस᳚रस्य॒ धेना॒ अनु᳚ वा॒मेकः᳚ प॒विरा व᳚वर्त ॥
▶ पदपाठः (Word-by-word)
तत् । सु । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । म॒हि॒॑त्वम् । ई॒र्मा । त॒स्थुषीः᳚ । अह᳚॑भिः । दु॒दु॒ह्रे॒ ।
विश्वाः᳚ । पि॒न्व॒थः॒ । स्वस᳚रस्य । धेनाः᳚ । अनु᳚ । वा॒म् । एकः᳚ । प॒विः । आ । व॒व॒र्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणा वांयुवयोस्तन्महित्वं महत्त्वं सु सुष्ठु अतिप्रशस्तमित्यर्थः किंतदित्युच्यते ईर्मा सततगन्ता सर्वस्पप्रेरकोवा आदित्यःअह- भिरहोभिर्वर्षर्तुसंबन्धिभिः तस्थुषीः स्थावरभूताः अपोदुदुह्रे दुग्धे किंच स्वसरस्य स्वयंसर्तुरादित्यस्य विश्वाः सर्वाधेनाः लोकानां प्रीण- यित्रीर्द्युतीः पिन्वथः वर्धयथः वांयुवयोरेकः अप्रतियोगीपविः पविरितिरथस्यनेमिः पवीरथनेमिर्भवतीतियास्कवचनात् । तथाप्यत्रल- क्षितलक्षणयारथेवर्तते केवलचक्रस्यावर्तनायोगात् युवयोरेकोरथअन्वाववर्त अनुक्रमेणपरिभ्रमते ॥ २ ॥