श्रवणम्

5.62.9
यद्बंहि᳚ष्ठं॒ नाति॒विधे᳚ सुदानू॒ अच्छि᳚द्रं॒ शर्म᳚ भुवनस्य गोपा ।
तेन᳚ नो मित्रावरुणावविष्टं॒ सिषा᳚सन्तो जिगी॒वांसः᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
यत् । बंहि᳚ष्ठम् । न । अ॒ति॒॑विधे᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । अच्छि᳚द्रम् । शर्म᳚ । भु॒व॒न॒स्य॒ । गो॒पा॒ ।
तेन᳚ । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒वि॒ष्ट॒म् । सिसा᳚सन्तः । जि॒गी॒वांसः᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसुदानू शोबनदानौ हेभुवनस्यगोपा गोपौयुवां बंहिष्ठं बहुतमं यदच्छिद्रं अनवच्छिन्नं शर्म सुखंगृहंवा नातिविधे अतिवेद्धुमशक्यं शर्मेतिशर्मविशेषणं व्यधताडनइत्यस्मादत्युपपदेकृत्यार्थेकेन् संप्रसारणंच तादृशंशर्म धारयतः तेनशर्मणा नोस्मानविष्टं रक्षतं हेमित्रावरु- णौ सिषास्न्तोधनानिसंभक्तुमिच्छन्तोवयं जिगीवांसः शत्रूणांधनानिजेतुमिच्छन्तः स्याम भवेम ॥ ९ ॥

वेदार्थस्यप्रकाशेनतमोहर्दंनिवारयन् ॥ पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणामात्येनविरचितेमाधवीयेवेदार्थप्रकाशे ऋक्संहिताभाष्येचतुर्थाष्टकेतृतीयोध्यायःसमाप्तः ॥ ३ ॥