आ वा॒मश्वा᳚सः सु॒युजो᳚ वहन्तु य॒तर᳚श्मय॒ उप᳚ यन्त्व॒र्वाक् ।
घृ॒तस्य᳚ नि॒र्णिगनु᳚ वर्तते वा॒मुप॒ सिन्ध᳚वः प्र॒दिवि᳚ क्षरन्ति ॥
घृ॒तस्य᳚ नि॒र्णिगनु᳚ वर्तते वा॒मुप॒ सिन्ध᳚वः प्र॒दिवि᳚ क्षरन्ति ॥
पदपाठः (Word-by-word)
आ । वा॒म् । अश्वा᳚सः । सु॒॑युजः᳚ । व॒ह॒न्तु॒ । य॒त॑र᳚श्मयः । उप᳚ । य॒न्तु॒ । अ॒र्वाक् ।
घृ॒तस्य᳚ । निः॒॑निक् । अनु᳚ । व॒र्त॒ते॒ । वा॒म् । उप᳚ । सिन्ध᳚वः । प्र॒॑दिवि᳚ । क्ष॒र॒न्ति॒ ॥
घृ॒तस्य᳚ । निः॒॑निक् । अनु᳚ । व॒र्त॒ते॒ । वा॒म् । उप᳚ । सिन्ध᳚वः । प्र॒॑दिवि᳚ । क्ष॒र॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्रावरुणौ वां युवां अश्वासोश्वाः सुयुजः सुष्ठुरथेयुक्ताः सन्तःआवहन्तु यतरश्मयः सारथिनियतप्रग्रहाः ते अर्वागुपयन्तु घृतस्योद- कस्य निर्निग्रूपं वामनुवर्तते अनुगच्छति किंच प्रदिवि पुराणनामैतत् पुराणाः सिन्धवः उपक्षरन्ति उपगच्छन्ति युवयोरनुग्रहात् ॥ ४ ॥