हिर᳚ण्यनिर्णि॒गयो᳚ अस्य॒ स्थूणा॒ वि भ्रा᳚जते दि॒व्य१॒᳚श्वाज᳚नीव ।
भ॒द्रे क्षेत्रे॒ निमि᳚ता॒ तिल्वि᳚ले वा स॒नेम॒ मध्वो॒ अधि᳚गर्त्यस्य ॥
भ॒द्रे क्षेत्रे॒ निमि᳚ता॒ तिल्वि᳚ले वा स॒नेम॒ मध्वो॒ अधि᳚गर्त्यस्य ॥
पदपाठः (Word-by-word)
हिर᳚ण्य॑निर्निक् । अयः᳚ । अ॒स्य॒ । स्थूणा᳚ । वि । भ्रा॒ज॒ते॒ । दि॒वि । अ॒श्वाज᳚नी॑इव ।
भ॒द्रे । क्षेत्रे᳚ । नि॑मि᳚ता । तिल्वि᳚ले । वा॒ । स॒नेम᳚ । मध्वः᳚ । अधि᳚॑गर्त्यस्य ॥
भ॒द्रे । क्षेत्रे᳚ । नि॑मि᳚ता । तिल्वि᳚ले । वा॒ । स॒नेम᳚ । मध्वः᳚ । अधि᳚॑गर्त्यस्य ॥
सायणभाष्यम् (Sayana Commentary)
अनयोरथः हिरण्यनिर्निक् हिरण्यरूपं निर्निगितिरूपनाम अस्यरथस्य स्थूणाः कीलकादयः अयः हिरण्यनामैतत् अयोविकाराइत्यर्थ: अयोमयावा तादृशोरथोदिवि अन्तरिक्षे विभ्राजते किमिव अश्वाजनीव अश्वाव्यापनशीलामेघाः तानजतिगच्छतीत्यश्वाजनीविद्युत् सेव दिविभ्राजते किंच भद्रे कल्याणे स्तुत्येवा क्षेत्रे देवयजने तिल्विलेवा तिलस्नेहने तिलुः स्निग्धा भूमिर्यस्यतत्क्षेत्रंतिल्विलं देवयजनं घृतसो- मादिना स्निग्धे भद्रेच क्षेत्रे निमिता स्थूणा यूपयष्टिरवस्थितः मध्वोमधुपूर्णं गर्तस्य गर्तंरथं सनेम संभजेम कर्मणिषष्ठ्यौ अधीतिपूरणः अथवा गर्तस्याधि रथस्योपरि मध्वोमधुसोमरसं सनेम स्थापयेमेत्यर्थः गर्त्यस्येतितुपाठे मधुनोविशेषणं दिगादित्वाद्यत् ॥ ७ ॥