श्रवणम्

5.62.3
अधा᳚रयतं पृथि॒वीमु॒त द्यां मित्र᳚राजाना वरुणा॒ महो᳚भिः ।
व॒र्धय᳚त॒मोष᳚धी॒ः पिन्व᳚तं॒ गा अव᳚ वृ॒ष्टिं सृ᳚जतं जीरदानू ॥
▶ पदपाठः (Word-by-word)
अधा᳚रयतम् । पृ॒थि॒वीम् । उ॒त । द्याम् । मित्र᳚॑राजाना । व॒रु॒णा॒ । महः᳚॑भिः ।
व॒र्धय᳚तम् । ओष᳚धीः । पिन्व᳚तम् । गाः । अव᳚ । वृ॒ष्टिम् । सृ॒ज॒त॒म् । जी॒र॒दा॒नू॒ इति᳚ जीर॑दानू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रराजाना मित्रभूताःस्तोतारोराजानःस्वामिनईश्वराभवन्ति ययोःसकाशात् तौ मित्रराजानौ हेवरुणा प्रतियोग्यपेक्षयाद्विवचनं अत्रपादादित्वादाद्यंपदंननिहन्यते वरुणेत्येतस्यतु आमन्त्रितंपूर्वमविद्यमानवदितिपूर्वस्याविद्यमानवत्त्वेनास्यैवपादादित्वादनिघातत्वंयु- क्तं नैवंभवति नामंत्रितेसमानाधिकरणेसामान्यवचनमिति वरुणेत्येतस्यामंत्रितस्मानाधिकरणत्वादस्यचसामान्यवचनत्वादविद्यमानव- त्त्वाभावेन पादादित्वाभावादुत्तरस्यनिघातत्वंयुक्तं हे देवौ महोभिस्तेजोभिः स्वसामर्थ्यैः पृथिवीं उतापिच द्यां अधारयतं हेदेवौ युवामो- षधीर्वर्धयतं वृष्ठिप्रेरणेन गाःपिन्वतं गवाश्वादीन्वर्धयतं तदर्थं वृष्टिमवसूजतं अवाङ्मुखंप्रेरयतं हेजीरदानूशिप्रदानौ ॥ ३ ॥