हिर᳚ण्यरूपमु॒षसो॒ व्यु᳚ष्टा॒वयः᳚स्थूण॒मुदि᳚ता॒ सूर्य᳚स्य ।
आ रो᳚हथो वरुण मित्र॒ गर्त॒मत᳚श्चक्षाथे॒ अदि᳚तिं॒ दितिं᳚ च ॥
आ रो᳚हथो वरुण मित्र॒ गर्त॒मत᳚श्चक्षाथे॒ अदि᳚तिं॒ दितिं᳚ च ॥
पदपाठः (Word-by-word)
हिर᳚ण्य॑रूपम् । उ॒षसः᳚ । वि॑उ᳚ष्टौ । अयः᳚॑स्थूणम् । उत्॑इ᳚ता । सूर्य᳚स्य ।
आ । रो॒ह॒थः॒ । व॒रु॒ण॒ । मि॒त्र॒ । गर्त᳚म् । अतः᳚ । च॒क्षा॒थे॒ इति᳚ । अदि᳚तिम् । दिति᳚म् । च॒ ॥
आ । रो॒ह॒थः॒ । व॒रु॒ण॒ । मि॒त्र॒ । गर्त᳚म् । अतः᳚ । च॒क्षा॒थे॒ इति᳚ । अदि᳚तिम् । दिति᳚म् । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
उषसोव्युष्टौ प्रातःकालेइत्यर्थः सूर्यस्य उदिता उदितौ उदये सएवकालः प्रकारान्तरेणोक्तः तस्मिन्काले हिरण्यरूपं अयःस्थूणं अयो- मयशंकुं गर्तं रथं हेवरुण हेमित्र युवां गर्तमारोहथः यज्ञंप्राप्तुं अतः अस्माद्धेतोः अदितिमखंडनीयांभूमिं दितिंखंडितां प्रजादिकांच चक्षाथे पश्यथः ॥ ८ ॥ दाक्षयणयज्ञेयद्वंहिष्ठमितिनवमी । द्वितीयस्याममावास्यायां मैत्रावरुणस्यहविषोयाज्या सूत्रितंच-आनोमित्रावरुणायद्वंहिष्ठंनातिवि- धेसुदानूइति । मैत्रावरुणेपशौहविषएषैवयाज्या सूत्रितंच-यद्बंहिष्ठंनातिविधेसुदानूहिरण्यगर्भः समवर्तताग्रइति । तत्पाठस्तु ।