श्रवणम्

5.3.2 समानपद
त्वम᳚र्य॒मा भ᳚वसि॒ यत्क॒नीनां॒ नाम᳚ स्वधाव॒न्गुह्यं᳚ बिभर्षि ।
अ॒ञ्जन्ति᳚ मि॒त्रं सुधि᳚तं॒ न गोभि॒र्यद्दम्प᳚ती॒ सम᳚नसा कृ॒णोषि᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒र्य॒मा । भ॒व॒सि॒ । यत् । क॒नीना᳚म् । नाम᳚ । स्वधा॑व᳚न् । गुह्य᳚म् । बि॒भ॒र्षि॒ ।
अ॒ञ्जन्ति᳚ । मि॒त्रम् । सु॑धि᳚तम् । न । गोभिः᳚ । यत् । दम्प᳚ती॒ इति॒ दम्॑प᳚ती । स॑म᳚नसा । कृ॒णोषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विवाहे चतुर्थ्यामाज्याहुतौ त्वमर्यमेत्येषा । सूत्रितं च । त्वमर्यमा भवसि यत्कनीनामिति विवाहे चतुर्थीम् । आ. गृ. १-४ । इति ॥

हे अग्ने त्वमर्यमा भवसि । सर्वेषां नियमितासि । यद्यदा कनीनां कन्यकानां सम्बन्ध्यसि । किञ्च हे स्वधावन् हविर्लक्षणान्नवन् गुह्यं गोपनीयं नाम बिभर्षि वैश्वानर इति तन्नाम । सुधितं सुष्ठु सहितं मित्रं न मित्रमिव गोभिः । विकारे प्रकृतिशब्दः । गोविकारैः क्षीरादिभिरञ्जन्ति । यद्यस्माद्दम्पती ज्यायापती । समनसा समानमनस्कौ कृणोषि । करोषि ॥ २ ॥