श्रवणम्

5.22.4
अग्ने᳚ चिकि॒द्ध्य१॒᳚स्य न᳚ इ॒दं वचः᳚ सहस्य ।
तं त्वा᳚ सुशिप्र दम्पते॒ स्तोमै᳚र्वर्ध॒न्त्यत्र᳚यो गी॒र्भिः शु᳚म्भ॒न्त्यत्र᳚यः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । चि॒कि॒द्धि । अ॒स्य । नः॒ । इ॒दम् । वचः᳚ । स॒ह॒स्य॒ ।
तम् । त्वा॒ । सु॒॑शि॒प्र॒ । द॒म्॑प॒ते॒ । स्तोमैः᳚ । व॒र्ध॒न्ति॒ । अत्र᳚यः । गीः॒॑भिः । शु॒म्भ॒न्ति॒ । अत्र᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सहस्य सहसोबलस्यपुत्र नोस्मदीयं अस्येदंपरिचरणं इदंवचः स्तोत्रंच चिकिद्धि जानीहि हेसुशिप्र शोभने शिप्रेहनूनासिकेवायस्यासौसुशिप्रः त्स्यसंबोधनंसुशिप्र सुहनो दंपते गृहपते तं त्वां अत्रयोत्रिपुत्राः स्तोमैःस्तोत्रैः वर्धन्ति वर्धयन्ति अत्रयोगी र्भिःशुंभंत्यलंकुर्वन्ति ॥ ४ ॥

अग्नेसहन्तमितिचतुरृचंनवमंसूक्तं अत्रानुक्रमणिका-अग्नेद्युम्नोविश्वचर्षणिरिति । द्युम्नऋषिः चतुर्थीपंक्तिराद्यास्तिस्रोनुष्टुभः अग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तान्तः पातितत्वादुक्तोविनियोगः ।