प्र ये दि॒वो बृ᳚ह॒तः शृ᳚ण्वि॒रे गि॒रा सु॒शुक्वा᳚नः सु॒भ्व᳚ एव॒याम᳚रुत् ।
न येषा॒मिरी᳚ स॒धस्थ॒ ईष्ट॒ आ{4} अ॒ग्नयो॒ न स्ववि᳚द्युत॒ः प्र स्य॒न्द्रासो॒ धुनी᳚नाम् ॥
न येषा॒मिरी᳚ स॒धस्थ॒ ईष्ट॒ आ{4} अ॒ग्नयो॒ न स्ववि᳚द्युत॒ः प्र स्य॒न्द्रासो॒ धुनी᳚नाम् ॥
पदपाठः (Word-by-word)
प्र । ये । दि॒वः । बृ॒ह॒तः । शृ॒ण्वि॒रे । गि॒रा । सु॒॑शुक्वा᳚नः । सु॒॑भ्वः᳚ । ए॒व॒याम᳚रुत् ।
न । येषा᳚म् । इरी᳚ । स॒ध॑स्थे᳚ । ईष्टे᳚ । आ । अ॒ग्नयः᳚ । न । स्व॑वि᳚द्युतः । प्र । स्य॒न्द्रासः᳚ । धुनी᳚नाम् ॥
न । येषा᳚म् । इरी᳚ । स॒ध॑स्थे᳚ । ईष्टे᳚ । आ । अ॒ग्नयः᳚ । न । स्व॑वि᳚द्युतः । प्र । स्य॒न्द्रासः᳚ । धुनी᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
येमरुतोबृहतोदिवोद्युलोकदागच्छन्तः प्रश्रृण्विरे श्रृण्वन्ति तान्मरुतोगिरा एवयामरुत् स्तुतवान् कीदृशास्ते शुशुक्वानोदीप्ताः सुभ्वः सुष्ठुभवन्तः येषांमरुतां सधस्थे सहस्थाने स्वकीयेनिवासे तिष्ठतां इरी ईरिता प्रेरिता नेष्टे आनेशतेच चालयितुं आइतिचार्थे अग्नयोन अग्नयइव स्वविद्युतःस्वयमेवविद्योतमानाः धनीनां नदीनां स्पंद्रासः वर्षणेनचालयितारश्च ॥ ३ ॥