श्रवणम्

5.87.9
गन्ता᳚ नो य॒ज्ञं य᳚ज्ञियाः सु॒शमि॒ श्रोता॒ हव᳚मर॒क्ष ए᳚व॒याम᳚रुत् ।
ज्येष्ठा᳚सो॒ न पर्व᳚तासो॒ व्यो᳚मनि यू॒यं तस्य᳚ प्रचेतस॒ः स्यात᳚ दु॒र्धर्त᳚वो नि॒दः ॥
▶ पदपाठः (Word-by-word)
गन्त᳚ । नः॒ । य॒ज्ञम् । य॒ज्ञि॒याः॒ । सु॒॑शमि᳚ । श्रोत᳚ । हव᳚म् । अ॒र॒क्षः । ए॒व॒याम᳚रुत् ।
ज्येष्ठा᳚सः । न । पर्व᳚तासः । वि॑ओ᳚मनि । यू॒यम् । तस्य᳚ । प्र॒॑चे॒त॒सः॒ । स्यात᳚ । दुः॒॑धर्त᳚वः । नि॒दः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयज्ञियाः मरुतोयूयं नोस्माकंयज्ञं गन्त आगच्छत सुशमि शोभनकर्मयथाभवतितथा सुकर्मत्वायेत्यर्थः तदर्थं नोहवं अस्मदीयमा- ह्वानं श्रोत श्रृणुत अरक्षः रक्षोवर्जितायूयं लिंगवचनयोर्व्यत्ययः ज्येष्ठासोन ज्येष्ठाइव पर्वतासः विन्ध्यादयइव अतिप्रवृद्धाव्योमनिअन्त- रिक्षेवर्तमानाः प्रचेतसः प्रवृद्धज्ञानाः यूयं तस्यनिदोनिन्दकस्य दुर्धर्तवोदुर्धराः स्यात भवत ॥ ९ ॥

भारद्वाजेषष्ठेमंडले षडनुवाकाः तत्र प्रथमेनुवाकेपंचदशसूक्तानि तत्रत्वंह्यग्रइतित्रयोदशर्चंप्रथमंसूक्तं त्वंह्यग्नेसप्तोनेतिबार्हस्पत्योभर- द्वाजः षष्ठंमंडलमपश्यदित्यनुक्रान्तत्वात् मंडलद्रष्टासएवभरद्वाजऋषिः अनादेशपरिभाषयात्रिष्टुप् मंडलादिपरिभाषयाग्निर्देवता पशोर्ह- विष्यवदीयमानेमैत्रावरुणेनानुवचनीयमिदंमनोतासूक्तं सूत्रितंच-त्वंह्यग्नेप्रथमइत्यन्वाहेति । प्रातरनुवाके आग्नेयेक्रतौत्रैष्टुभेछन्दस्येतदा- दिसूक्तषट्कंद्वितीयवर्जं सूत्रितंच-त्वंह्यग्नेप्रथमइतिषण्णांद्वितीयमुद्धरेदिति आद्योपाकरणेविनियुक्ता सूत्रंतुपूर्वमंत्रेउक्तम् ।