श्रवणम्

5.87.8
अ॒द्वे॒षो नो᳚ मरुतो गा॒तुमेत᳚न॒ श्रोता॒ हवं᳚ जरि॒तुरे᳚व॒याम᳚रुत् ।
विष्णो᳚र्म॒हः स᳚मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒᳚ न दं॒सनाप॒ द्वेषां᳚सि सनु॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒द्वे॒षः । नः॒ । म॒रु॒तः॒ । गा॒तुम् । आ । इ॒त॒न॒ । श्रोत᳚ । हव᳚म् । ज॒रि॒तुः । ए॒व॒याम᳚रुत् ।
विष्णोः᳚ । म॒हः । स॒॑म॒न्य॒वः॒ । यु॒यो॒त॒न॒ । स्मत् । र॒थ्यः᳚ । न । दं॒सना᳚ । अप᳚ । द्वेषां᳚सि । स॒नु॒तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः अद्वेषः अद्वेषसोयूयं नोस्माकं गातुं गमनस्वभावंस्तोत्रंप्रति आइतन आगच्छत तदर्थं जरितुः स्तोतुरेवयामरुत् एवयामरुतो- ममहवं श्रोत श्रृणुत विष्णोर्व्यापकस्येन्द्रस्य महोमहतो हेसमन्यवःसमानयज्ञाः यूयं स्मत् अयंप्रशस्तनाम प्रशस्तारथ्योन रथिनोयोद्धा- रइव तेयथाशत्रूनपाकुर्वन्ति तद्वदस्माकं दंसना कर्मणा सनुतः अन्तर्हितनामैतत् अन्तर्हितान द्वेषांसि द्वेष्टृन् अपयुयोतन दूरेवियोजयत पृथक्कुरुत ॥ ८ ॥