श्रवणम्

5.87.6
अ॒पा॒रो वो᳚ महि॒मा वृ᳚द्धशवसस्त्वे॒षं शवो᳚॑वत्वेव॒याम᳚रुत् ।
स्थाता᳚रो॒ हि प्रसि᳚तौ सं॒दृशि॒ स्थन॒ ते न᳚ उरुष्यता नि॒दः शु᳚शु॒क्वांसो॒ नाग्नयः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒पा॒रः । वः॒ । म॒हि॒मा । वृ॒द्ध॒॑श॒व॒सः॒ । त्वे॒षम् । शवः᳚ । अ॒व॒तु॒ । ए॒व॒याम᳚रुत् ।
स्थाता᳚रः । हि । प्र॑सि᳚तौ । स॒म्॑दृशि᳚ । स्थन᳚ । ते । नः॒ । उ॒रु॒ष्य॒त॒ । नि॒दः । शु॒शु॒क्वांसः᳚ । न । अ॒ग्नयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोवोयुष्माकं महिमा अपारोनवधिकः हेवृद्धशवसः प्रवृद्धबलाः त्वेषं दीप्तं शवोयुष्माकंबलमवतुरक्षतु एवयामरुतंमां द्वितीयै- कवचनस्यलुक् यूयंप्रसितौ प्रबलबन्धने नियमनवतियज्ञे संदृशि संदर्शनेनिमित्ते स्थातारोहि स्थाननियमेनतिष्ठन्तोस्थन भवथखलु तेनो- स्मान्निदोनिन्दकाच्छत्रोः सकाशादुरुष्यतरक्षत अग्नयइवशुशुक्वांसोदीप्ताःयूयमिति ॥ ६ ॥