श्रवणम्

5.87.7
ते रु॒द्रास॒ः सुम᳚खा अ॒ग्नयो᳚ यथा तुविद्यु॒म्ना अ᳚वन्त्वेव॒याम᳚रुत् ।
दी॒र्घं पृ॒थु प᳚प्रथे॒ सद्म॒ पार्थि᳚वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु᳚तैनसाम् ॥
▶ पदपाठः (Word-by-word)
ते । रु॒द्रासः᳚ । सु॑म᳚खाः । अ॒ग्नयः᳚ । य॒था॒ । तु॒वि॒॑द्यु॒म्नाः । अ॒व॒न्तु॒ । ए॒व॒याम᳚रुत् ।
दी॒र्घम् । पृ॒थु । प॒प्र॒थे॒ । सद्म᳚ । पार्थि᳚वम् । येषा᳚म् । अज्मे᳚षु । आ । म॒हः । शर्धां᳚सि । अद्भु᳚त॑एनसाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेमरुतोरुद्रासोरुद्रपुत्राः सुमखाः शोभनयज्ञाः अग्नयोयथाग्नयइव तुविद्युम्नाः प्रभूतदीप्तयः अथवाग्निसदृशाः तुविद्युम्नाः प्रभूतधनाः अवन्तु रक्षन्तु एवयामरुत् एतन्नामानमृषिंमां पार्थिवं पृथिव्यत्रान्तरिक्षं तत्संबन्धि दीर्घं आयतं पृथु विस्तीर्णं सद्म सदनं पप्रथे मरुद्भिः प्रथितमभूत् अद्भुतैनसां अपापानांयेषां अज्मेषु गमनेषु महोमहान्ति शर्धांसिच बलानि आगच्छन्तीतिशेषः ॥ ७ ॥