श्रवणम्

5.87.2
प्र ये जा॒ता म᳚हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना᳚ ब्रु॒वत᳚ एव॒याम᳚रुत् ।
क्रत्वा॒ तद्वो᳚ मरुतो॒ नाधृषे॒ शवो᳚ दा॒ना म॒ह्ना तदे᳚षा॒मधृ᳚ष्टासो॒ नाद्र᳚यः ॥
▶ पदपाठः (Word-by-word)
प्र । ये । जा॒ताः । म॒हि॒ना । ये । च॒ । नु । स्व॒यम् । प्र । वि॒द्मना᳚ । ब्रु॒वते᳚ । ए॒व॒याम᳚रुत् ।
क्रत्वा᳚ । तत् । वः॒ । म॒रु॒तः॒ । न । आ॒॑धृषे᳚ । शवः᳚ । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् । अधृ᳚ष्टासः । न । अद्र᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये महिना महता विष्णुनेन्द्रेणवासह प्रजाताः प्रादुर्भूताः तान् ब्रुवते येच नु क्षिप्रं स्वयमेव विद्मना यज्ञगमनविषयज्ञानेनसहप्रजाताः प्रादुर्भूताः तान् मरुतः एवयामरुत् ब्रुवते स्तौति प्रेत्ययमाख्यातेनवा संबन्धनीयः ब्रुवतइतिव्यत्ययेनबहुवचनं एकवचनेवाछान्दसःशः निघाताभावश्छान्दसः अथप्रत्यक्षवादः हेमरुतोवोयुष्माकं तत्प्रसिद्धं शवोबलं क्रत्वाचालनादिरूपेण कर्मणायुक्तं नाधृषे कैश्चिदप्याधर्ष- णीयंनभवति अन्येषामसुरादीनां क्रत्वा कर्मणावानभिभाव्यंभवति कृत्यार्थेकेन् किंचैषांवः तत् बलं दाना अभिमतदानेन मह्ना महत्त्वेन- चोपेतं यूयं प्रबलाः अधृष्टासः अधर्षणीयाः तत्रदृष्टान्तः अद्रयोन तेयथाअधृष्याः तद्वद्यूयमपि ॥ २ ॥