श्रवणम्

5.87.4
स च᳚क्रमे मह॒तो निरु᳚रुक्र॒मः स᳚मा॒नस्मा॒त्सद᳚स एव॒याम᳚रुत् ।
य॒दायु᳚क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प᳚र्धसो॒ विम᳚हसो॒ जिगा᳚ति॒ शेवृ᳚धो॒ नृभि᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । च॒क्र॒मे॒ । म॒ह॒तः । निः । उ॒रु॒॑क्र॒मः । स॒मा॒नस्मा᳚त् । सद᳚सः । ए॒व॒याम᳚रुत् ।
य॒दा । अयु᳚क्त । त्मना᳚ । स्वात् । अधि᳚ । स्नु॑भिः᳚ । वि॑स्प᳚र्धसः । वि॑म᳚हसः । जिगा᳚ति । शे॑वृ᳚धः । नृ॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समरुद्गणोमहतः प्रवृद्धात् समानस्मात् सर्वेषांसाधारणात् सदसः स्थानादन्तरिक्षात् उरुक्रमोविस्तीर्णक्रमणःसन् निश्चक्रमे निरग- च्छत् कदेत्युच्यते एवयामरुदृषिः यदा स्वात्स्वकीयस्थानात् अधीतिपंचम्यर्थानुवादी त्मना आत्मनैव स्नुभिर्गन्तृभिर्नृभिः स्वनेतृभिरश्वै- रयुक्त युक्तोभवदागमनप्रार्थनाय अथ बहुवदुष्यते तदानीं विस्पर्धसः विविधस्पर्धाः अहंपुरतोगच्छाम्यहं पुरतोगच्छामीति तेषांस्पर्धा अथवा विगतस्पर्धानह्येषांसार्धंस्पर्धकाःसन्ति विमहसोविशिष्टबलाः शेवृधः शेवस्यसुखस्यवर्धयितारः जिगाति निर्गच्छन्ति व्यत्ययेनै- कवचनम् ॥ ४ ॥