श्रवणम्

5.24.1
अग्ने॒ त्वं नो॒ अन्त᳚म उ॒त त्रा॒ता शि॒वो भ᳚वा वरू॒थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । त्वम् । नः॒ । अन्त᳚मः । उ॒त । त्रा॒ता । शि॒वः । भ॒व॒ । व॒रू॒थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने वरूथ्यः वरणीयः संभजनीयः यद्वा वरूथैः परिधिभिर्वृतस्त्वंनोस्माकंअंतिमोन्तिकत भव उतापिच त्राता रक्षकः शिवः सुखकरश्चभव वसुर्वासकोग्निःसर्वेषामग्नणीः वसुश्रर व्याप्तान्नस्त्वं अच्छ आभिमुख्येननक्षि अस्मान् व्याप्नुहि द्युमत्तमं अतिशयेनदीप्तिमत् रयिं पदादिलक्षणंधनं दाः अस्मभ्यंदेहि ॥ १ ॥ २ ॥