श्रवणम्

5.5.11
स्वाहा॒ग्नये॒ वरु᳚णाय॒ स्वाहेन्द्रा᳚य म॒रुद्भ्य᳚ः ।
स्वाहा᳚ दे॒वेभ्यो᳚ ह॒विः ॥
▶ पदपाठः (Word-by-word)
स्वाहा᳚ । अ॒ग्नये᳚ । वरु᳚णाय । स्वाहा᳚ । इन्द्रा᳚य । म॒रुत्॑भ्यः᳚ ।
स्वाहा᳚ । दे॒वेभ्यः᳚ । ह॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्न्यादि विश्वे देवाः । तेभ्यो देवेभ्युअ इदं हविः स्वाहा करोमीते शेशः । स्वाहुतं करोमीत्यर्थः । एवं स्वाहाकृतेः स्तुतिः ॥ ११ ॥