श्रवणम्

6.18.1
तमु᳚ ष्टुहि॒ यो अ॒भिभू᳚त्योजा व॒न्वन्नवा᳚तः पुरुहू॒त इन्द्र᳚ः ।
अषा᳚ळ्हमु॒ग्रं सह᳚मानमा॒भिर्गी॒र्भिर्व᳚र्ध वृष॒भं च᳚र्षणी॒नाम् ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । स्तु॒हि॒ । यः । अ॒भिभू᳚ति॑ओजाः । व॒न्वन् । अवा᳚तः । पु॒रु॒॑हू॒तः । इन्द्रः᳚ ।
अषा᳚ळ्हम् । उ॒ग्रम् । सह᳚मानम् । आ॒भिः । गीः॒॑भिः । व॒र्ध॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिभूत्योजाः अभिभावुकतेजाः वन्वन् शत्रून् हिंसन् अवातः शत्रुभिरहिंसितः वनोतेर्निष्ठान्तस्यनञ् पूर्वस्यरूपं यद्वा वातेर्वातं अनभिगतः पुरुहूतः बहुभिराहूतः यइन्द्रोस्तीतिशेषः हेभरद्वाज तमुष्टुहि तमेवेन्द्रंस्तुहि अपिच आभिर्वक्ष्यमाणाभिर्गीर्भिः स्तुतिरूपाभि- र्वाग्भिः तमिन्द्रं वर्ध वर्धय कीदृशं अषाह्ळमनभिभूतं उग्रमुद्गूर्णमोजस्विनंवा सहमानं शत्रूनभिभवन्तं चर्षणीनां प्रजानांसंबन्धिनं वृषभं वर्षितारं ॥ १ ॥