प्र तु᳚विद्यु॒म्नस्य॒ स्थवि᳚रस्य॒ घृष्वे᳚र्दि॒वो र᳚रप्शे महि॒मा पृ᳚थि॒व्याः ।
नास्य॒ शत्रु॒र्न प्र᳚ति॒मान᳚मस्ति॒ न प्र᳚ति॒ष्ठिः पु᳚रुमा॒यस्य॒ सह्यो᳚ः ॥
नास्य॒ शत्रु॒र्न प्र᳚ति॒मान᳚मस्ति॒ न प्र᳚ति॒ष्ठिः पु᳚रुमा॒यस्य॒ सह्यो᳚ः ॥
पदपाठः (Word-by-word)
प्र । तु॒वि॒॑द्यु॒म्नस्य᳚ । स्थवि᳚रस्य । घृष्वेः᳚ । दि॒वः । र॒र॒प्शे॒ । म॒हि॒मा । पृ॒थि॒व्याः ।
न । अ॒स्य॒ । शत्रुः᳚ । न । प्र॒ति॒॑मान᳚म् । अ॒स्ति॒ । न । प्र॒ति॒॑स्थिः । पु॒रु॒॑मा॒यस्य᳚ । सह्योः᳚ ॥
न । अ॒स्य॒ । शत्रुः᳚ । न । प्र॒ति॒॑मान᳚म् । अ॒स्ति॒ । न । प्र॒ति॒॑स्थिः । पु॒रु॒॑मा॒यस्य᳚ । सह्योः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तुविद्युम्नस्य बहुयशसोबहुधनस्यवा स्थविरस्य प्रवृद्धस्य घृष्वेः शत्रूणांघर्षकस्येन्द्रस्य महिमामहत्त्वं दिवोद्युलोकात् पृथिव्याः भूमेश्च प्रररप्शे प्ररिरिचे विरप्शीतिमहन्नामसुपाठात् नाम्नांचप्रायेणधातुजत्वात् रप्शतिरत्रातिशयवाची पुरुमायस्य बहुप्रज्ञस्य सह्योः शत्रूणा- मभिभवितुरस्येन्द्रस्य शत्रुःशातयितानास्ति प्रतिमानं प्रतिनिधिर्नास्ति अस्यप्रतिष्ठिः प्रतिष्ठा आश्रयोनास्ति सएव सर्वस्यप्रतिष्ठेत्यर्थः ॥ १२ ॥